वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: आयुः काण्वः छन्द: बृहती स्वर: मध्यमः

य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् । यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥

अंग्रेज़ी लिप्यंतरण

ya ukthā kevalā dadhe yaḥ somaṁ dhṛṣitāpibat | yasmai viṣṇus trīṇi padā vicakrama upa mitrasya dharmabhiḥ ||

पद पाठ

यः । उ॒क्था । केव॑ला । द॒धे । यः । सोम॑म् । धृ॒षि॒ता । अपि॑बत् । यस्मै॑ । विष्णुः॑ । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे । उप॑ । मि॒त्रस्य॑ । धर्म॑ऽभिः ॥ ८.५२.३

ऋग्वेद » मण्डल:8» सूक्त:52» मन्त्र:3 | अष्टक:6» अध्याय:4» वर्ग:20» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:3